Saturday, May 12, 2018

श्री सूक्तं Shri Suktam

Creative Commons License
This work is licensed under a Creative Commons Attribution-Noncommercial-No Derivative Works 2.5 India License.




हिरण्यवर्णां हरिणीं सुवर्ण रजतस्रजाम्

चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह

तां म आवह जातवेदो लक्ष्मी मनप गामिनीम्

यस्यां हिरण्यं विन्देयं गाम् अश्वं पुरुषानहम्

अश्वपूर्वां रथमध्यां हस्तिनाद प्रबोधिनीम्

श्रियं देवीम् उपह्वये श्रीः मा देवीम् जुषतां

कां सोस्मितां हिरण्य प्राकाराम्  आर्द्राम्  ज्वलन्तीं तृप्तां तर्पयन्तीम्

पद्मे स्थितां पद्मवर्णां तामिहो पह्वये श्रियम्

चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देव जुष्टाम् उदाराम्

तां पद्मिनीमीं शरणम् अहं प्रपद्ये अलक्ष्मीः मे नश्यतां त्वां वृणे

आदित्यवर्णे तपसो अधिजातो वनस्पतिः तव वृक्षोऽथ बिल्वः

तस्य फलानि तपसा नुदन्तु माया अन्तरायाः च बाह्या अलक्ष्मीः

उपैतु मां देवसखः कीर्तिः च मणिना सह

प्रादुः भुतोस्मि  राष्ट्रेऽस्मिन् कीर्तिम् ऋद्धिं ददातु मे

क्षुत् पिपासा अमलां ज्येष्ठाम् अलक्ष्मीं नाशयाम अहं

अभूतिम् समृद्धिं च सर्वां निर्णुद मे गृहात्

गंधद्वारां दुराधर्षाम् नित्यपुष्टां करीषिणीम्

ईश्वरीम्  सर्वभूतानां तामिहो पह्वये श्रियम्

मनसः काममाकूतिं वाचः सत्यमशीमहि

पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः

कर्दमेन प्रजाभूता मयि सम्भव कर्दम

श्रियं वासय मे कुले मातरं पद्ममालिनीम्

आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे

नि च देवीं मातरं श्रियं वासय मे कुले

आर्द्रां यः करिणीं यष्टिं सुवर्णां हेम मालिनीम्

सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह

आर्द्रां पुष्करिणीं पुष्टिं पिंगलां पद्म मालिनीम्

चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह

तां म आवह जातवेदो लक्ष्मीमनप गामिनीम्

यस्यां हिरण्यं प्रभूतं गावो दास्यो श्वान विन्देयं पुरुषानहम्

यः शुचिः प्रयतो भूत्वा जुहुयादाज्य मन्वहम्

सूक्तं पंचदश अर्चं च श्रीकामः सततं जपेत् ॥ १६॥

           
लक्ष्मी सूक्त
     
पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे

त्वं मां भजसि पद्माक्षी येन सौख्यं लभाम्यहम्

अश्वदायी गोदायी धनदायी महाधने

धनं मे जुषतां देवि सर्वकामांश्च देहि मे

पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम्

प्रजानां भवसि माता आयुष्मन्तं करोतु माम्

धनम् अग्निः धनं वायुः धनं सूर्यो धनं वसुः

धनं इन्द्रो बृहस्पतिः वरुणं धनं अश्विनः  ॥

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा

सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ॥

भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत् ॥

पद्मानने पद्म विपद्मपात्रे पद्मप्रिये पद्मदलायताक्षि ।

विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥

सरसिजनिलये सरोजहस्ते

धवलतरांशुक गन्धमाल्यशोभे

भगवति हरिवल्लभे मनोज्ञे

त्रिभुवनभूतिकरिप्रसीद मह्यम्

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम्

विष्णोः प्रियसखींम् देवीं नमाम्यच्युतवल्लभाम्

महालक्ष्मी च विद्महे विष्णुपत्नी च धीमही ।

तन्नो लक्ष्मीः प्रचोदयात् ॥



फलश्रुति

आनन्दः कर्दमः श्री दः चिक्लीत इति विश्रुताः

ऋषयः श्रियः पुत्राः च श्रीः देवीः देवता मताः

ऋण रोग आदि दारिद्र्य पाप क्षुद्र अपमृत्युव

भय शोक मनः ताप नश्यन्तु मम सर्वदा ॥

श्री वर्चस्वं आयुष्यं आरोग्यं अविधात् पवमानं महीयते

धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥


      ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

PROCEED TO REMAINDER OF DEVATA POOJA

No comments: